________________
अर्जुन उवाच
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७.१॥
॥ॐ॥ चतुर्दशाध्याये 'नान्यं गुणेभ्यः कर्तारं ' (१४.१९) इत्यादिना सर्वोऽपि परिणामो गुणकृत इति सामान्यत उक्तस्यात्र सत्त्वादिगुणकृतानां श्रद्धानामाहारस्य तपःप्रभृतिकर्मणां च सदसद्रूपाणां भेदोक्त्या प्रपञ्चनं क्रियते । पूर्वत्र
शास्त्रविधानोक्तं ज्ञात्वा कर्म कार्यमित्युक्ते लब्धावसरोऽर्जुनः शास्त्रविध्यज्ञानिनां का स्थितिरिति पृच्छति ॥ य इति । ये जनाः शास्त्रविधिमुत्सृज्य अज्ञात्वा श्रद्धयाऽन्विताः श्रद्धामात्रेण
यज॑ते । तेषां निष्ठा तु स्थितिस्तु का कीदृशी । तामेव
I
विविच्याह ॥ सत्त्वमित्यादिना । किं सात्त्विकी राजसी तामसी वा स्थितिरित्यर्थः । ते किं सात्त्विका राजसास्तामसा वेति यावत् ॥१७.१॥
श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७.२॥
ते त्रिविधा अपि संतीति भावेन प्राक् यागाङ्गतया यष्ट्रविशेषणत्वेनोक्तश्रद्धां सात्त्विकत्वादिना विभज्य
तदाश्रयेण तेषां सात्त्विकत्वादिस्वरूपमाह ॥ त्रिविधेति द्वाभ्यां । श्रद्धा आस्तिक्यनिष्ठा स्वभावजैवेत्यन्ययः ।
मनोवृत्तिश्रद्धाव्यावृत्तये स्वभावजैवेत्युक्तम् । तां त्रिविधां शृणु श्रुत्वा तत्र निष्ठां कुर्वित्यर्थः । तदन्वितैः
क्रियमाणयजनप्रकारं शृण्वित्यर्थः ॥ १७.२॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
१